वा॒मं नो᳚ अस्त्वर्यमन्वा॒मं व᳚रुण॒ शंस्य᳚म् ।
वा॒मं ह्या᳚वृणी॒महे᳚ ॥
वा॒मं ह्या᳚वृणी॒महे᳚ ॥
पदपाठः (Word-by-word)
वा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य᳚म् ।
वा॒मम् । हि । आ॒॑वृ॒णी॒महे᳚ ॥
वा॒मम् । हि । आ॒॑वृ॒णी॒महे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अर्यमन्देव वामं वननीयं संभजनीयं धनं नोस्माकं अस्तु भवतु । हे वरुण शंस्यं शंसनीयं स्तुत्यं वामं धनमस्माकमस्तु । कुतः हिशब्दोहेतौ यस्मात्कारणात् वयं वामं धनं युष्मानावृणीमहे याचामहे इत्यर्थः तस्मान्नोस्त्वित्याशास्ते ॥ ४ ॥