यू॒यं हि ष्ठा सु᳚दानव॒ इन्द्र᳚ज्येष्ठा अ॒भिद्य᳚वः ।
अधा᳚ चिद्व उ॒त ब्रु᳚वे ॥
अधा᳚ चिद्व उ॒त ब्रु᳚वे ॥
पदपाठः (Word-by-word)
यू॒यम् । हि । स्थ । सु॒॑दा॒न॒वः॒ । इन्द्र᳚॑ज्येष्ठाः । अ॒भि॑द्य᳚वः ।
अध᳚ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥
अध᳚ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वोर्धर्चःसिद्धः हे सुदानवः शोभनदानादेवाः इन्द्रज्येष्ठाः इन्द्रोज्येष्ठोमुख्योयेषां ते तथोक्ताः सर्वेदेवाः इन्द्रनेतृकाइत्यर्थः । तादृशः अभिद्यवः अभिगतदीप्तयो यूयं स्थ अस्मद्यज्ञे भवथखलु । हिः प्रसिद्धौ । अधचित् अथानन्तरमेव वोयुष्मानहं ब्रुवे स्तौमि । उतापिच पुनःपुनः स्तौमीत्यर्थः ॥ ९ ॥
प्रेष्ठंवइति नवर्चं चतुर्थं सूक्तं कवेःपुत्रस्योशनसआर्षं गायत्रमाग्नेयं-तथानुक्रम्यते-प्रेष्ठमुशनाकाव्यआग्नेयमिति । प्रातरनुवाके आग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चेदंसूक्तम् । सूत्रितंच-युश्वाहि प्रेष्ठंवइति । आभिप्लविकेषूक्थ्येषु मैत्रावरुणे प्रेष्ठंवइतितृचो वैकल्पिकः स्तौत्रियः । सूत्रितंच-प्रेष्ठंवोअतिथिं श्रेष्ठंयविष्ठभारतेति ।