श्रवणम्

8.83.3
अति᳚ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प᳚र्षथ ।
यू॒यमृ॒तस्य᳚ रथ्यः ॥
▶ पदपाठः (Word-by-word)
अति᳚ । नः॒ । वि॒ष्पि॒ता । पु॒रु । नौ॒भिः । अ॒पः । न । प॒र्ष॒थ॒ ।
यू॒यम् । ऋ॒तस्य᳚ । र॒थ्यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य सत्यस्य यज्ञस्यवाहे रथ्यो नेतारोदेवाः यूयं विष्पिता विष्पितानि विप्राप्तानि विततानि पुरु सुपोलुक् पुरूणि बहूनि शत्रुबलानि कर्माणि नोस्मान् यूयमतिपर्षथ बलानिचेत् तेषां वधेन अतीत्य गमयत । कर्माणिचेत् नोस्मानतिपर्षथ पारं समाप्तिं रक्षणैः गमयत । तत्रदृष्टान्तः- नौभिरपोन यथा नाविकः अपः उदकानि नौभिर्जनान् तीरं प्रति प्रापयति तद्वत् ॥ ३ ॥