श्रवणम्

8.83.2
ते नः᳚ सन्तु॒ युज॒ः सदा॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
वृ॒धास᳚श्च॒ प्रचे᳚तसः ॥
▶ पदपाठः (Word-by-word)
ते । नः॒ । स॒न्तु॒ । युजः᳚ । सदा᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
वृ॒धासः᳚ । च॒ । प्र॑चे᳚तसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ते देवाः वरुणः शत्रूणां निवारकः मित्रः सर्वेषां मित्रभूतः अर्यमा सततं गच्छन् एतन्नामकास्ते त्रयोदेवाः सदा सर्वदा सर्वेषु अहःसु नोस्माकं युजः सहायाः सन्तु भवन्तु । अग्निहोत्रादिकर्मणि इन्द्रादिदेवाः सहागमनादि यज्ञपरिसमापनान्तेषु साहाय्यं कुर्वन्त्वित्यर्थः । ततः प्रचेतसः प्रकृष्टज्ञानाः यद्वा चेतः स्तोत्रं शोभनस्तुतयस्तेदेवा वृधासो वर्धकाश्च अस्माकं धनादिदानेन वर्धयितारश्च सन्तु ॥ २ ॥