श्रवणम्

8.83.6
व॒यमिद्व᳚ः सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना ।
देवा᳚ वृ॒धाय᳚ हूमहे ॥
▶ पदपाठः (Word-by-word)
व॒यम् । इत् । वः॒ । सु॒॑दा॒न॒वः॒ । क्षि॒यन्तः᳚ । यान्तः᳚ । अध्व᳚न् । आ ।
देवाः᳚ । वृ॒धाय᳚ । हू॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुदानवः शोभनदानाः हे देवाः क्षियन्तो गृहेष्वग्निहोत्रार्थं निवसन्तः अध्वन् सुपोलुक् अध्वनि समिदाहरणार्थं यान्तो गच्छन्तोपि वयं वइत् युष्मानेव वृधाय हविर्भिर्वर्धनाय हूमहे आह्वयामः । यद्वा वयं गृहेषु गृहान्निर्गमनकाले मार्गेषु च वृधाय अस्माकं धनादिभिर्वर्धनायाह्वयामः ॥ ६ ॥