त्वामि॒दा ह्यो नरो॑पी᳚प्यन्वज्रि॒न्भूर्ण᳚यः ।
स इ᳚न्द्र॒ स्तोम᳚वाहसामि॒ह श्रु॒ध्युप॒ स्वस᳚र॒मा ग᳚हि ॥
स इ᳚न्द्र॒ स्तोम᳚वाहसामि॒ह श्रु॒ध्युप॒ स्वस᳚र॒मा ग᳚हि ॥
पदपाठः (Word-by-word)
त्वाम् । इ॒दा । ह्यः । नरः᳚ । अपी᳚प्यन् । व॒ज्रि॒न् । भूर्ण᳚यः ।
सः । इ॒न्द्र॒ । स्तोम᳚॑वाहसाम् । इ॒ह । श्रु॒धि॒ । उप᳚ । स्वस᳚रम् । आ । ग॒हि॒ ॥
सः । इ॒न्द्र॒ । स्तोम᳚॑वाहसाम् । इ॒ह । श्रु॒धि॒ । उप᳚ । स्वस᳚रम् । आ । ग॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे वज्रिन् इन्द्र यं त्वां भुर्णयो हविर्भिर्भरणशीलाः नरः कर्मणां नेतारोयजमाना इदा अद्य ह्यश्च अपीप्यन् सोममपाययन् सत्वं स्तोमवाहसां स्तोत्रवाहकानामस्माकं स्तोत्रं इह यज्ञे श्रुधि शृणु । स्वसरं गृहंच । दुर्याः स्वसराणीति गृहनामसु पाठात् । उपागहि उपागच्छ ॥ १ ॥