श्रवणम्

8.99.3
श्राय᳚न्त इव॒ सूर्यं॒ विश्वेदिन्द्र᳚स्य भक्षत ।
वसू᳚नि जा॒ते जन᳚मान॒ ओज᳚सा॒ प्रति᳚ भा॒गं न दी᳚धिम ॥
▶ पदपाठः (Word-by-word)
श्राय᳚न्तः॑इव । सूर्य᳚म् । विश्वा᳚ । इत् । इन्द्र᳚स्य । भ॒क्ष॒त॒ ।
वसू᳚नि । जा॒ते । जन᳚माने । ओज᳚सा । प्रति᳚ । भा॒गम् । न । दी॒धि॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयाजनाः श्रायन्तइव सूर्यं यथा समाश्रितारश्मयः सुर्यं भजन्ते तथेन्द्रस्य विश्वेत् विश्वान्येव धनानि भक्षत भजत । सच यानि वसूनि धनानि जाते उत्पन्ने जनमाने जनिष्यमाणे चौजसा बलेन करोति । अतः भागंन पित्र्यं भागमिव तानि धनानि प्रतिदीधिम प्रतिधारयेमेति । यद्वा श्रायन्तइव सूर्यं यथा समाश्रितारश्मयः सूर्यमुपतिष्ठन्ते तथेन्द्रस्य विश्वा विश्वानि विभक्तुमिच्छन्तः समाश्रितामरुतः इन्द्रमुपतिष्ठन्तइतिशेषः । उपस्थायच मरुतो वसून्युदकओलक्षणानि धनानि जाते जाताय जनमाने जनिष्यमाणायच मनुष्यायच ओजसा बलेन भक्षत विभजन्ते । तत्र- चास्माकं योभागः तं भागम् । नेतिसंप्रत्यर्थे । प्रतीत्येष अनु इत्येतस्य स्थाने । अनुदीधिम वयं अनुध्यायाम । तथाचयास्कः-समाश्रिताः सूर्य- मुपतिष्ठन्ते अपिवोपमार्थे स्यात्सूर्यमिवेन्द्रमुपतिष्ठन्तइति । सर्वाणीन्द्रस्यधनानि विभक्ष्यमाणाः सयथा धनानि विभजति जातेच जनिष्य- माणेच तं वयं भागमनुध्यायेमेति ॥ ३ ॥