श्रवणम्

8.99.5 समानपद
त्वमि᳚न्द्र॒ प्रतू᳚र्तिष्व॒भि विश्वा᳚ असि॒ स्पृधः᳚ ।
अ॒श॒स्ति॒हा ज᳚नि॒ता वि᳚श्व॒तूर᳚सि॒ त्वं तू᳚र्य तरुष्य॒तः ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । प्र॑तू᳚र्तिषु । अ॒भि । विश्वाः᳚ । अ॒सि॒ । स्पृधः᳚ ।
अ॒श॒स्ति॒॑हा । ज॒नि॒ता । वि॒श्व॒॑तूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं प्रतूर्तिषु संग्रामेषु विश्वाः सर्वाः स्पृधोयुद्धकारिणीः शत्रुसेनाः अभ्यसि अभिभवसि । किंच हे तूर्य शत्रूणां बाधकेन्द्र त्वं अशस्तिहा दैत्यानामशस्तीनां हन्तासि । जनिता असुरेभ्यः अशस्तीनां जनिताचासि । विश्वतूः विश्वतः सर्वस्य शत्रुवर्गस्य हिंसिताचासि तरुष्यतो बाधकांश्च बाधमानोसि ॥ ५ ॥