अन᳚र्शरातिं वसु॒दामुप᳚ स्तुहि भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ।
सो अ᳚स्य॒ कामं᳚ विध॒तो न रो᳚षति॒ मनो᳚ दा॒नाय᳚ चो॒दय᳚न् ॥
सो अ᳚स्य॒ कामं᳚ विध॒तो न रो᳚षति॒ मनो᳚ दा॒नाय᳚ चो॒दय᳚न् ॥
पदपाठः (Word-by-word)
अन᳚र्श॑रातिम् । व॒सु॒॑दाम् । उप᳚ । स्तु॒हि॒ । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ।
सः । अ॒स्य॒ । काम᳚म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः᳚ । दा॒नाय᳚ । चो॒दय᳚न् ॥
सः । अ॒स्य॒ । काम᳚म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः᳚ । दा॒नाय᳚ । चो॒दय᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे स्तोतारः अनर्शरातिं अपापकदानं अपापिष्ठस्य दातारमित्यर्थः । तथाचयास्कः-अनर्शरातिमनश्लीलदानमश्लीलं पापकमिति । वसुदां धनस्य- दातारमिन्द्रं उपस्तुहि यतइन्द्रस्य रातयोदानानि भद्राः कल्याणानि महदैश्वर्यकारीणीत्यर्थः । यतश्च सइन्द्रः स्वकीयं मनोदानाय अभीष्ट- प्रदानाय चोदयन् प्रेरयन् विधतः परिचरतोस्य स्तोतुः काममिच्छां नरोषति नहिनस्ति ॥ ४ ॥