श्रवणम्

8.99.6 समानपद
अनु᳚ ते॒ शुष्मं᳚ तु॒रय᳚न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा᳚ ।
विश्वा᳚स्ते॒ स्पृधः᳚ श्नथयन्त म॒न्यवे᳚ वृ॒त्रं यदि᳚न्द्र॒ तूर्व᳚सि ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । ते॒ । शुष्म᳚म् । तु॒रय᳚न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति᳚ । शिशु᳚म् । न । मा॒तरा᳚ ।
विश्वाः᳚ । ते॒ । स्पृधः᳚ । श्न॒थ॒य॒न्त॒ । म॒न्यवे᳚ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव शुष्मं बलं तुरयन्तं हिंसन्तं शत्रुं क्षोणी द्यावापृथिव्यौ मातरा मातरौ शिशुंन शिशुमिव अन्वीयतुः अनुगच्छतः । गमनमात्रे दृष्टान्तः । किंच हेइन्द्र त्वं यद्यस्माद्बृत्रं शत्रुं तूर्वसि हंसि अतस्ते तव मन्यवे क्रोधाय विश्वाः सर्वाः स्पृधः संग्रामकारिण्यः सेनाः श्नथयन्त श्नथिताः खिन्नाभवन्ति ॥ ६ ॥