श्रवणम्

8.99.7 समानपद
इ॒त ऊ॒ती वो᳚ अ॒जरं᳚ प्रहे॒तार॒मप्र᳚हितम् ।
आ॒शुं जेता᳚रं॒ हेता᳚रं र॒थीत᳚म॒मतू᳚र्तं तुग्र्या॒वृध᳚म् ॥
▶ पदपाठः (Word-by-word)
इ॒तः । ऊ॒ती । वः॒ । अ॒जर᳚म् । प्र॒॑हे॒तार᳚म् । अप्र᳚॑हितम् ।
आ॒शुम् । जेता᳚रम् । हेता᳚रम् । र॒थि॑त᳚मम् । अतू᳚र्तम् । तु॒ग्र्य॒॑वृध᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अस्मदीयजनाः वोयूयं अजरं जरारहितं प्रहेतारं शत्रूणां प्रेरकं अप्रहितं केनाप्यप्रेषितं आशुं वेगवन्तं जेतारं शत्रूणां हेतारं गन्तारं रथीतमं रथिनां श्रेष्ठं अतूर्तं केनाप्यहिंसितं तुग्र्यावृधं उदकस्य वर्धयितारमिन्द्रं ऊती ऊत्यै रक्षणाय इतः कुरुत पुरस्कुरुतेतियावत् ॥ ७ ॥