मत्स्वा᳚ सुशिप्र हरिव॒स्तदी᳚महे॒ त्वे आ भू᳚षन्ति वे॒धसः᳚ ।
तव॒ श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚ सु॒तेष्वि᳚न्द्र गिर्वणः ॥
तव॒ श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚ सु॒तेष्वि᳚न्द्र गिर्वणः ॥
पदपाठः (Word-by-word)
मत्स्व᳚ । सु॒॑शि॒प्र॒ । ह॒रि॒॑वः॒ । तत् । ई॒म॒हे॒ । त्वे इति᳚ । आ । भू॒ष॒न्ति॒ । वे॒धसः᳚ ।
तव᳚ । श्रवां᳚सि । उ॒प॒॑मानि᳚ । उ॒क्थ्या᳚ । सु॒तेषु᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
तव᳚ । श्रवां᳚सि । उ॒प॒॑मानि᳚ । उ॒क्थ्या᳚ । सु॒तेषु᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुशिप्र शोभनोष्णीषिन् वा हरिवः अश्ववन् गिर्वणो गीर्भिर्वननीयेन्द्र त्वे त्वयि वेढसः परिचारका आभूषन्त्याभवन्ति । मत्स्व सोमेन मादयात्मानम् । किंच तत् त्वां वयमीमहे याचामहे । किंयाच्यमित्यत्राह-सुतेषु सोमेषु अभिषुतेषु सत्सु तव श्रवांस्यन्नानि उपमानि उपमानभूतानि उक्थ्या प्रशंस्यानि च सन्त्विति ॥ २ ॥