श्रवणम्

7.29.1
अ॒यं सोम᳚ इन्द्र॒ तुभ्यं᳚ सुन्व॒ आ तु प्र या᳚हि हरिव॒स्तदो᳚काः ।
पिबा॒ त्व१॒᳚स्य सुषु᳚तस्य॒ चारो॒र्ददो᳚ म॒घानि᳚ मघवन्निया॒नः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सोमः᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । सु॒न्वे॒ । आ । तु । प्र । या॒हि॒ । ह॒रि॒॑वः॒ । तत्॑ओ᳚काः ।
पिब᳚ । तु । अ॒स्य । सु॑सु᳚तस्य । चारोः᳚ । ददः᳚ । म॒घानि᳚ । म॒घ॒॑व॒न् । इ॒या॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तुभ्यं त्वदर्थमयमेषसोमः सुन्वे अभिषुतोभवत् हे हरिवन्निन्द्र तदोकाः तत् सेवनीयोयस्यासौ तदोकाः तु क्षिप्रां आ प्रयाहि सुषुतस्य सम्यगभिषुतस्य चारोः शोभनस्यास्य द्वितीयार्थेषष्ठी सम्यगभिषुतं शोभनमित्यर्थः तु क्षिप्रं पिब च । अपि च हे मघवन् इयानः उपगम्यमानोयाच्यमानोवा त्वं मघानि धनानि ददः अस्मभ्यं देहि ॥ १ ॥