श्रवणम्

7.29.2
ब्रह्म᳚न्वीर॒ ब्रह्म᳚कृतिं जुषा॒णो᳚॑र्वाची॒नो हरि᳚भिर्याहि॒ तूय᳚म् ।
अ॒स्मिन्नू॒ षु सव᳚ने मादय॒स्वोप॒ ब्रह्मा᳚णि शृणव इ॒मा नः᳚ ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚न् । वी॒र॒ । ब्रह्म᳚॑कृतिम् । जु॒षा॒णः । अ॒र्वा॒ची॒नः । हरि᳚॑भिः । या॒हि॒ । तूय᳚म् ।
अ॒स्मिन् । ऊं॒ इति᳚ । सु । सव᳚ने । मा॒द॒य॒स्व॒ । उप᳚ । ब्रह्मा᳚णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मन् परिवृढ वीरेन्द्र ब्रह्मकृतिं क्रियमाणं स्तोत्रं जुषाणः सेवमानः अर्वाचीनोस्मदभिमुखः सन् हरिभिरश्वैस्तूयं क्षिप्रं याहि अस्मिन्नु अस्मिन्नेव सवने यज्ञे सु सुष्ठु मादयस्व च । नोस्मदीयानि इमा इमानि ब्रह्माणि स्तोत्राणि चोपशृणवः उपशृणु ॥ २ ॥