श्रवणम्

7.29.3
का ते᳚ अ॒स्त्यरं᳚कृतिः सू॒क्तैः क॒दा नू॒नं ते᳚ मघवन्दाशेम ।
विश्वा᳚ म॒तीरा त᳚तने त्वा॒याधा᳚ म इन्द्र शृणवो॒ हवे॒मा ॥
▶ पदपाठः (Word-by-word)
का । ते॒ । अ॒स्ति॒ । अर᳚म्॑कृतिः । सु॒॑उ॒क्तैः । क॒दा । नू॒नम् । ते॒ । म॒घ॒॑व॒न् । दा॒शे॒म॒ ।
विश्वाः᳚ । म॒तीः । आ । त॒त॒ने॒ । त्वा॒॑या । अध᳚ । मे॒ । इ॒न्द्र॒ । शृ॒ण॒वः॒ । हवा᳚ । इ॒मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते तव सूक्तैरस्माभिः क्रियमाणैः स्तोत्रैः अरंकृतिः कास्ति कीदृशीभवति हे मघवन् ते तव कदा नूनं कदा खलु दाशेम प्रीतिमुत्पा- दयेम त्वाया त्वत्कामनयैव विश्वाः मतीः सर्वाः स्तुतीराततने करोमि । अध अतः कारणात् हे इन्द्र मे मदीयानि इमा इमानि हवा हवानि स्तोत्राणि शृणु ॥ ३ ॥