श्रवणम्

7.29.4
उ॒तो घा॒ ते पु᳚रु॒ष्या॒३॒᳚ इदा᳚स॒न्येषां॒ पूर्वे᳚षा॒मशृ᳚णो॒रृषी᳚णाम् ।
अधा॒हं त्वा᳚ मघवञ्जोहवीमि॒ त्वं न᳚ इन्द्रासि॒ प्रम᳚तिः पि॒तेव᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । घ॒ । ते । पु॒रु॒ष्याः᳚ । इत् । आ॒स॒न् । येषा᳚म् । पूर्वे᳚षाम् । अशृ᳚णोः । ऋषी᳚णाम् ।
अध᳚ । अ॒हम् । त्वा॒ । म॒घ॒॑व॒न् । जो॒ह॒वी॒मि॒ । त्वम् । नः॒ । इ॒न्द्र॒ । अ॒सि॒ । प्र॑म᳚तिः । पि॒ता॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपि च घेति पूरणः हे मघवन् येषां पूर्वे ऋषयः पुरुष्याइत् पुरुषेभ्योहिताएवासन् अध अथोहं त्वा त्वां जोहवीमि भृशं स्तौमि अपि च हे इन्द्र त्वं नोस्माकं पितेव जनकइव प्रमतिः बन्धरसि ॥ ४ ॥