आपो॒ यं वः᳚ प्रथ॒मं दे᳚व॒यन्त᳚ इन्द्र॒पान᳚मू॒र्मिमकृ᳚ण्वते॒ळः ।
तं वो᳚ व॒यं शुचि᳚मरि॒प्रम॒द्य घृ᳚त॒प्रुषं॒ मधु᳚मन्तं वनेम ॥
तं वो᳚ व॒यं शुचि᳚मरि॒प्रम॒द्य घृ᳚त॒प्रुषं॒ मधु᳚मन्तं वनेम ॥
पदपाठः (Word-by-word)
आपः᳚ । यम् । वः॒ । प्र॒थ॒मम् । दे॒व॒॑यन्तः᳚ । इ॒न्द्र॒॑पान᳚म् । ऊ॒र्मिम् । अकृ᳚ण्वत । इ॒ळः ।
तम् । वः॒ । व॒यम् । शुचि᳚म् । अ॒रि॒प्रम् । अ॒द्य । घृ॒त॒॑प्रुष᳚म् । मधु᳚॑मन्तम् । व॒ने॒म॒ ॥
तम् । वः॒ । व॒यम् । शुचि᳚म् । अ॒रि॒प्रम् । अ॒द्य । घृ॒त॒॑प्रुष᳚म् । मधु᳚॑मन्तम् । व॒ने॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
देवयन्तोदेवानिच्छन्तोध्वर्यवः हे आपः हे अब्देवताः वोयुष्माकं कार्यभूतं इन्द्रपानं इंद्रेण पातव्यं इळः इळाया भूम्याः संभूतं यमूर्मिं यं रसं प्रथमं पुरा अकृण्वत अभि अभिषवणवचनादिभिः समस्कुर्वत अद्येदानीं वयमपि वोयुष्मदीयं तमूर्मिं वनेम । संभजेमहि कीदृशं शुचिं शुद्धं अरिप्रं पापरहितं घृतप्रुषं वृष्टिलक्षणमुदकं सिंचंतं मधुमन्तं मधुररसोपेतं एवंभूतं तं वनेमेति संबन्धः ॥ १ ॥