श्रवणम्

7.47.3
श॒तप᳚वित्राः स्व॒धया॒ मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि᳚ यन्ति॒ पाथः᳚ ।
ता इन्द्र᳚स्य॒ न मि᳚नन्ति व्र॒तानि॒ सिन्धु᳚भ्यो ह॒व्यं घृ॒तव᳚ज्जुहोत ॥
▶ पदपाठः (Word-by-word)
श॒त॑प᳚वित्राः । स्व॒धया᳚ । मद᳚न्तीः । दे॒वीः । दे॒वाना᳚म् । अपि᳚ । य॒न्ति॒ । पाथः᳚ ।
ताः । इन्द्र᳚स्य । न । मि॒न॒न्ति॒ । व्र॒तानि᳚ । सिन्धु᳚॑भ्यः । ह॒व्यम् । घृ॒त॑व᳚त् । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शतपवित्राः शतं बहूनि पवित्राणि पावनानि रूपाणि यासां ताः स्वधया स्वकार्यभूतेनान्नेन मदन्तीर्जनान्मादयन्त्यः देवीर्देव्यः द्योतमा- नाआपः देवानामिन्द्रादीनां पाथः स्थानमपि यन्ति प्रविशन्ति तास्तादृश्यआपः इन्द्रस्य प्रीणनानि व्रतानि यज्ञादीनि कर्माणि नमिनन्ति नहिंसन्ति उत्पादयन्तीत्यर्थः हे अध्वर्यवोयूयं सिन्धुभ्यस्ताभ्योड्भ्यः घृतवत् उपस्तरणाभिघारणलक्षणाज्ययुक्तं हव्यं पुरोडाशादिकं हविर्जुहोत जुहुत ॥ ३ ॥