श्रवणम्

7.47.4
याः सूर्यो᳚ र॒श्मिभि᳚रात॒तान॒ याभ्य॒ इन्द्रो॒ अर᳚दद्गा॒तुमू॒र्मिम् ।
ते सि᳚न्धवो॒ वरि᳚वो धातना नो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
याः । सूर्यः᳚ । र॒श्मि॑भिः᳚ । आ॒॑त॒तान᳚ । याभ्यः᳚ । इन्द्रः᳚ । अर᳚दत् । गा॒तुम् । ऊ॒र्मिम् ।
ते । सि॒न्ध॒वः॒ । वरि᳚वः । धा॒त॒न॒ । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्योदेवः याअपः रश्मिभिः स्वकीयैः किरणैः आततान विस्तारयति सूर्योहि रश्मिभिरुदकसारमादाय वर्षतीत्यर्थः याभ्योड्भ्यश्च ऊर्मिं अर्तेरिदं रूपं गमनयोग्यं गातुं मेघेभ्योनिर्गमनसाधनं मार्गं इन्द्रोपि अरदत् वज्रेण मेघान् ताडयन् प्रयच्छति हे सिंधवः आपः ते यूयं नोस्मभ्यं वरिवोधनं धातन धत्त प्रयच्छत । ते इति सिंधुशब्देन समानाधिकरणत्वात् पुल्लिंगत्वं हे अब्देवताः यूयं सर्वदा नोस्मान् कल्याणैः पालयत ॥ ४ ॥

ऋभुक्षणइति चतुरृचं पंचदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं ऋभुदेवताकं अन्त्यायाविकल्पेन विश्वेदेवादेवता तथाचानुक्रान्तं –ऋभुक्षण- आर्भवमंत्यावैश्वदेवीवेति । दशमेहनि वैश्वदेवशस्त्रेआर्भवनिविद्धानं सूत्र्यतेहि-ऋभक्षणइत्यार्भवमिति ।