श्रवणम्

7.47.2 समानपद
तमू॒र्मिमा᳚पो॒ मधु᳚मत्तमं वो॒॑पां नपा᳚दवत्वाशु॒हेमा᳚ ।
यस्मि॒न्निन्द्रो॒ वसु᳚भिर्मा॒दया᳚ते॒ तम᳚श्याम देव॒यन्तो᳚ वो अ॒द्य ॥
▶ पदपाठः (Word-by-word)
तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु᳚मत्॑तमम् । वः॒ । अ॒पाम् । नपा᳚त् । अ॒व॒तु॒ । आ॒शु॒॑हेमा᳚ ।
यस्मि᳚न् । इन्द्रः᳚ । वसु᳚॑भिः । मा॒दया᳚ते । तम् । अ॒श्या॒म॒ । दे॒व॒॑यन्तः᳚ । वः॒ । अ॒द्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे आपः एतत्संज्ञकादेवाः वोयुष्मदीयं मधुमत्तमं रसवत्तमं तमूर्मिं प्रसिद्धं सोमाख्यं रसं आशुहेमा शीघ्रगतिः अपांनपात् एतदाख्योदेवः अवतु पालयतु इन्द्रः यस्मिन्नुर्मौ वसुभिर्वासकैर्देवैः सह मादयाते माद्येतु अद्यअस्मिन् दिने देवयन्तोदेवकामावयं वोयुष्मदीयं तमूर्मिं अश्याम प्राप्नुयाम ॥ २ ॥