श्रवणम्

7.85.1
पु॒नी॒षे वा᳚मर॒क्षसं᳚ मनी॒षां सोम॒मिन्द्रा᳚य॒ वरु᳚णाय॒ जुह्व᳚त् ।
घृ॒तप्र᳚तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम᳚न्नुरुष्यताम॒भीके᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒नी॒षे । वा॒म् । अ॒र॒क्षस᳚म् । म॒नी॒षाम् । सोम᳚म् । इन्द्रा᳚य । वरु᳚णाय । जुह्व᳚त् ।
घृ॒त॑प्र᳚तीकाम् । उ॒षस᳚म् । न । दे॒वीम् । ता । नः॒ । याम᳚न् । उ॒रु॒ष्य॒ता॒म् । अ॒भीके᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रावरुणौ वां युवाभ्यं युवयोरर्थं अरक्षसं रक्षोरहितां राक्षसैरसंस्पृष्टां मनीषां स्तुतिं पुनीषे शोधयामि किंकुर्वन् इन्द्राय वरुणायच सोम जुह्वत् इन्द्रंवरुणंचोद्दिश्य सोमं अग्नौप्रक्षिपन् । कीदृशीं मनीषाम् देवीं द्योतमानाम् उषसंन उषसमिव घृतप्रतीकांदीप्तावयवां शिष्टःपरोक्षकृतः ता ताविन्द्रावरुणौ अभीके अभिगते युद्धे यामन् यामनि युद्धार्थं गमनेसति नोस्मान् उरुष्यतां रक्षताम् ॥ १ ॥