स सु॒क्रतु᳚रृत॒चिद᳚स्तु॒ होता॒ य आ᳚दित्य॒ शव᳚सा वां॒ नम᳚स्वान् ।
आ॒व॒वर्त॒दव᳚से वां ह॒विष्मा॒नस॒दित्स सु᳚वि॒ताय॒ प्रय᳚स्वान् ॥
आ॒व॒वर्त॒दव᳚से वां ह॒विष्मा॒नस॒दित्स सु᳚वि॒ताय॒ प्रय᳚स्वान् ॥
पदपाठः (Word-by-word)
सः । सु॒॑क्रतुः᳚ । ऋ॒त॒॑चित् । अ॒स्तु॒ । होता᳚ । यः । आ॒दि॒त्या॒ । शव᳚सा । वा॒म् । नम᳚स्वान् ।
आ॒॑व॒वर्त᳚त् । अव᳚से । वा॒म् । ह॒विष्मा᳚न् । अस᳚त् । इत् । सः । सु॒वि॒ताय᳚ । प्रय᳚स्वान् ॥
आ॒॑व॒वर्त᳚त् । अव᳚से । वा॒म् । ह॒विष्मा᳚न् । अस᳚त् । इत् । सः । सु॒वि॒ताय᳚ । प्रय᳚स्वान् ॥
सायणभाष्यम् (Sayana Commentary)
सुक्रतुः शोभनकर्मा शोभनप्रज्ञोवा सहोता स्तोता ऋतचित् ऋतस्योदकस्य यज्ञस्यवा चेता निचेतास्तु भवतु हे आदित्याअदितेः पुत्रा- विन्द्रावरुणौ छान्दसः सांहितिकोह्रस्वः योनमस्वान् नमसा स्तुत्यानमस्कारेणवा युक्तःसन् शवसा बलेन युक्तौ वां युवां परिचरती- तिशेषः ससुक्रतुरित्यन्वयः । अपिच यो हविष्मान् हविर्भिर्युक्तः सन् अवसे तर्पणार्थं वां युवां आववर्तत् आवर्तयेत् सयजमानः प्रयस्वान- न्नवान्भूत्वा सुविताय सुष्ठु प्राप्तव्याय फलाय असदित् भवेदेव ॥ ४ ॥