श्रवणम्

7.85.2
स्पर्ध᳚न्ते॒ वा उ᳚ देव॒हूये॒ अत्र॒ येषु᳚ ध्व॒जेषु᳚ दि॒द्यव॒ः पत᳚न्ति ।
यु॒वं ता{4} इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तं परा᳚च॒ः शर्वा॒ विषू᳚चः ॥
▶ पदपाठः (Word-by-word)
स्पर्ध᳚न्ते । वै । ऊं॒ इति᳚ । दे॒व॒॑हूये᳚ । अत्र᳚ । येषु᳚ । ध्व॒जेषु᳚ । दि॒द्यवः᳚ । पत᳚न्ति ।
यु॒वम् । तान् । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒मित्रा᳚न् । ह॒तम् । परा᳚चः । शर्वा᳚ । विषू᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवहूये देवाविजिगीषवोयोद्धारोहूयन्ते युद्धार्थं परस्परमाहूयन्ते हतिदेवहूयन्ते इतिदेवहूयः सङ्ग्रामः अत्रास्मिन् देवहूये संग्रामे स्पर्धन्ते वै शत्रवोस्माभिः स्पर्धन्ते खलु उइतिपूरकः येषु संग्रामेषु ध्वजेषु पताकासु दिद्यवः शत्रुक्षिप्तान्यायुधानि पतन्ति तान् तेषु संग्रामेषु विद्यमानान् अमित्रान् शत्रून् हे इन्द्रावरुणौ युवं युवां शर्वा शरुणा हिंसकेनायुधेन पराचः पराङ्मुखान् विषूचः विविधगतींश्च हतं हिंस्तं तथा ते शत्रवः पराङ्मुखाः इतस्ततः पलायमानाश्च भवन्ति तथा तान्बाधेथामित्यर्थः ॥ २ ॥