आप᳚श्चि॒द्धि स्वय᳚शस॒ः सद᳚स्सु दे॒वीरिन्द्रं॒ वरु᳚णं दे॒वता॒ धुः ।
कृ॒ष्टीर॒न्यो धा॒रय᳚ति॒ प्रवि᳚क्ता वृ॒त्राण्य॒न्यो अ᳚प्र॒तीनि᳚ हन्ति ॥
कृ॒ष्टीर॒न्यो धा॒रय᳚ति॒ प्रवि᳚क्ता वृ॒त्राण्य॒न्यो अ᳚प्र॒तीनि᳚ हन्ति ॥
पदपाठः (Word-by-word)
आपः᳚ । चि॒त् । हि । स्व॑य᳚शसः । सदः᳚॑सु । दे॒वीः । इन्द्र᳚म् । वरु᳚णम् । दे॒वता᳚ । धुरिति॒ धुः ।
कृ॒ष्टीः । अ॒न्यः । धा॒रय᳚ति । प्र॑वि᳚क्ताः । वृ॒त्राणि᳚ । अ॒न्यः । अ॒प्र॒तीनि᳚ । ह॒न्ति॒ ॥
कृ॒ष्टीः । अ॒न्यः । धा॒रय᳚ति । प्र॑वि᳚क्ताः । वृ॒त्राणि᳚ । अ॒न्यः । अ॒प्र॒तीनि᳚ । ह॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
आपश्चित् अब्विकाराः सोमाश्च स्वयशसः स्वायत्तयशस्काः देवीर्द्योतमानाः सन्तः सदःसु सदनेषु स्थानेषु इन्द्रं वरुणंच देवता एते द्वेदे- वते धुः धारयन्ति अवस्थापयन्ति सोमेनाप्यायिताहि देवताः स्वेस्वेस्थानेवतिष्ठन्ते । यद्वा वसतीवर्याख्या आपएव सोमाभिषवद्वारा सदनेषु इन्द्रं वरुणञ्च धारयन्ति तयोरिन्द्रावरुणयोरन्यएकः प्रविक्ताः प्रुथक्कृताः पुण्यापुण्यविवेकेन विचित्रफलभोक्वीः कृष्टीः प्रजा असाङ्कर्येण धारयति अन्यइन्द्रः वृत्राणि शत्रुजातानि अप्रतीनि अन्यैरप्रतिगतानि हन्ति हिनस्ति ॥ ३ ॥