प्र क्षोद᳚सा॒ धाय᳚सा सस्र ए॒षा सर᳚स्वती ध॒रुण॒माय᳚सी॒ पूः ।
प्र॒बाब᳚धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म᳚हि॒ना सिन्धु᳚र॒न्याः ॥
प्र॒बाब᳚धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म᳚हि॒ना सिन्धु᳚र॒न्याः ॥
पदपाठः (Word-by-word)
प्र । क्षोद᳚सा । धाय᳚सा । स॒स्रे॒ । ए॒षा । सर᳚स्वती । ध॒रुण᳚म् । आय᳚सी । पूः ।
प्र॒॑बाब᳚धाना । र॒थ्या᳚॑इव । या॒ति॒ । विश्वाः᳚ । अ॒पः । म॒हि॒ना । सिन्धुः᳚ । अ॒न्याः ॥
प्र॒॑बाब᳚धाना । र॒थ्या᳚॑इव । या॒ति॒ । विश्वाः᳚ । अ॒पः । म॒हि॒ना । सिन्धुः᳚ । अ॒न्याः ॥
सायणभाष्यम् (Sayana Commentary)
सरस्वती एषा । नदीवन्निगमा एषा दृश्यमानानदीरूपा सरस्वती आयसी अयसानिर्मिता पूः पुरीव धरुणं लिङ्गव्यत्ययः धरुणा धारयित्री धायसा धारकेण क्षोदसा उदकेन प्रसस्रे प्रधावति शीघ्रं गच्छति । सिन्धुः स्यन्दनशीला नदीरूपा सा अन्या विश्वाः सर्वाअपः आपगाः महिना महिम्ना प्रबाबधाना भृशं बाधमाना रथ्येवा प्रतोलीव विस्तीर्णासती याति गच्छति । यद्वा रथ्येव रथिनेव यथा रथी रथेन मार्गस्थं तरुगुल्मादिकं चूर्णीकृत्यगच्छति तद्वत्स्वकीयेन वेगेन सर्वं पिंषती गच्छतीत्यर्थः ॥ १ ॥ सारस्वतएवपशौ वपाया एकाचेतदित्यनुवाक्या सूत्रितं च-एकाचेतत्सरस्वतीनदीनामुतस्यानः सरस्वतीजुषाणेति ।