अ॒यमु᳚ ते सरस्वति॒ वसि᳚ष्ठो॒ द्वारा᳚वृ॒तस्य᳚ सुभगे॒ व्या᳚वः ।
वर्ध᳚ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
वर्ध᳚ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
पदपाठः (Word-by-word)
अ॒यम् । ऊं॒ इति᳚ । ते॒ । स॒र॒स्व॒ति॒ । वसि᳚ष्ठः । द्वारौ᳚ । ऋ॒तस्य᳚ । सु॒॑भ॒गे॒ । वि । आ॒व॒रित्या᳚वः ।
वर्ध᳚ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा᳚न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
वर्ध᳚ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा᳚न् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुभगे शोभनधने सरस्वति अयं वसिष्ठः ते त्वां यन्तुः ऋतस्य यज्ञस्य संबन्धिन्यौ द्वारौ पूर्वापरे ध्यावः विवृणोति उइतिपूरकः हे शुभ्रे शुभ्रवर्णे देवि वर्ध वर्धस्व तथा स्तुवते स्तोत्रं कुर्वते वसिष्ठाय वाजानन्नानि रासि प्रदेहि अन्यद्गतम् ॥ ६ ॥
बृहदुगायिषइति षळृचं सप्तमं सूक्तं वसिष्ठस्यार्षं आद्याबृहती द्वितीया सतोबृहती तृतीया प्रस्तारपंक्तिः शिष्टास्तिस्रोगायत्र्यः आद्यस्तृचः सरस्वतीदेवताकः अन्त्यश्च सरस्वद्देवताकः तथा चानुक्रान्तम्-बृहदुप्रगाथः प्रस्तारपंक्तिः परास्तिस्रोगायत्र्यः सरस्वतइति । पञ्चमेहनिप्रउगशस्त्रे आद्यः प्रगाथः सारस्वतस्तृचः सूत्रितञ्च-बृहदुगायिषेवचइति बार्हतं प्रउगं प्रगाथानेकइति ।