उ॒त स्या न॒ः सर᳚स्वती जुषा॒णोप᳚ श्रवत्सु॒भगा᳚ य॒ज्णे अ॒स्मिन् ।
मि॒तज्ञु᳚भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त᳚रा॒ सखि᳚भ्यः ॥
मि॒तज्ञु᳚भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त᳚रा॒ सखि᳚भ्यः ॥
पदपाठः (Word-by-word)
उ॒त । स्या । नः॒ । सर᳚स्वती । जु॒षा॒णा । उप᳚ । श्र॒व॒त् । सु॒॑भगा᳚ । य॒ज्ञे । अ॒स्मिन् ।
मि॒तज्ञु᳚॑भिः । न॒म॒स्यैः᳚ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्॑त᳚रा । सखि᳚॑भ्यः ॥
मि॒तज्ञु᳚॑भिः । न॒म॒स्यैः᳚ । इ॒या॒ना । रा॒या । यु॒जा । चि॒त् । उत्॑त᳚रा । सखि᳚॑भ्यः ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच जुषाणा प्रीयमाणा सुभगा शोभनधना स्या सा सरस्वती नोस्माकमस्मिन्यज्ञे उपश्रवत् अस्मदीयाः स्तुतीरुपश्रृणोतु । कीदृशी सा मितज्ञुभिः प्रह्वैर्जानुभिः नमस्यैर्नमस्कारै र्देवैः इयाना उपगम्यमाना चिच्छब्दश्चार्थे युजा नित्ययुक्तेन राया धनेन च संगता सखिभ्यः उत्तरा उत्कृष्टतरा ईदृशी अस्मदीयाः स्तुतीः उपश्रृणोत्वित्यन्वयः ॥ ४ ॥ पवित्रेष्ट्यां सारस्वतस्य हविषोइमाजुह्वानाइतियाज्या सूत्रितञ्च-इमाजुह्वानायुष्मदानमोभिर्दधिक्राव्णोअकारिषमिति ।