श्रवणम्

7.95.5 समानपद
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भि॒ः प्रति॒ स्तोमं᳚ सरस्वति जुषस्व ।
तव॒ शर्म᳚न्प्रि॒यत᳚मे॒ दधा᳚ना॒ उप᳚ स्थेयाम शर॒णं न वृ॒क्षम् ॥
▶ पदपाठः (Word-by-word)
इ॒मा । जुह्वा᳚नाः । यु॒ष्मत् । आ । नमः᳚॑भिः । प्रति᳚ । स्तोम᳚म् । स॒र॒स्व॒ति॒ । जु॒ष॒स्व॒ ।
तव᳚ । शर्म᳚न् । प्रि॒य॑त᳚मे । दधा᳚नाः । उप᳚ । स्थे॒या॒म॒ । श॒र॒णम् । न । वृ॒क्षम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सरस्वति इमा इमान्यस्मदीयानि हवींषि जुह्वानास्तुभ्यं जुह्वतोवयं नमोभिः त्वद्विषयैर्नमस्कारैः युष्मत् त्वत्सकाशात् आ उपसर्गश्रु- तेर्योग्यक्रियाध्याहारः आददीमहि धनानीति शेषः स्तोमं चास्मदीयं प्रतिजुषस्व प्रतिसेवस्व वयञ्च प्रियतमे अतिशयेन प्रिये त्व त्वदीये शर्मन् शर्मणि सुखे दधानाः निधीयमानाः सन्तः शरणं न वृक्षं आश्रयभूतं वृक्षमिव उपस्थेयाम त्वां उपतिष्ठेन संगच्छेमहि ॥ ५ ॥