श्रवणम्

8.78.1
पु॒रो॒ळाशं᳚ नो॒ अन्ध᳚स॒ इन्द्र᳚ स॒हस्र॒मा भ᳚र ।
श॒ता च᳚ शूर॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
पु॒रो॒ळाश᳚म् । नः॒ । अन्ध᳚सः । इन्द्र᳚ । स॒हस्र᳚म् । आ । भ॒र॒ ।
श॒ता । च॒ । शू॒र॒ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शूर इन्द्र पुरोळाशं पुरोदीयमानमेतत्संज्ञकं अंधसोन्नं स्वीकृत्य गोनां गवां सहस्रं शता शतानि च नोस्मभ्यं आभराहर । अथवा नोस्मभ्यं पुरतो दीयमानं अंधसोधोव्यञ्चनं सहस्रं सहस्रसंख्याकं गोसहस्रं चाहरेति योज्यम् ॥ १ ॥