तवेदि᳚न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं᳚ च॒ना द᳚दे ।
दि॒नस्य᳚ वा मघव॒न्त्सम्भृ᳚तस्य वा पू॒र्धि यव᳚स्य का॒शिना᳚ ॥
दि॒नस्य᳚ वा मघव॒न्त्सम्भृ᳚तस्य वा पू॒र्धि यव᳚स्य का॒शिना᳚ ॥
पदपाठः (Word-by-word)
तव᳚ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒॑शसा᳚ । हस्ते᳚ । दात्र᳚म् । च॒न । आ । द॒दे॒ ।
दि॒नस्य᳚ । वा॒ । म॒घ॒॑व॒न् । सम्॑भृ᳚तस्य । वा॒ । पू॒र्धि । यव᳚स्य । का॒शिना᳚ ॥
दि॒नस्य᳚ । वा॒ । म॒घ॒॑व॒न् । सम्॑भृ᳚तस्य । वा॒ । पू॒र्धि । यव᳚स्य । का॒शिना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे मघवन् इन्द्र तवेत् तवैवाशसा आशंसनेन त्वमस्मदीयं क्षेत्रं यवसमृद्धं करोषीत्याशंसनेन हस्ते दात्रं चन लवनसाधनं दात्रमथाददे स्वीकरोमि । किमनेन प्रयासेन दिनस्य वा पूर्वमेव छिन्नस्य वा यवस्य संभृतस्य वा पूर्वमेव छित्वा निष्कृतस्य राशीकृतस्य वा यवस्य काशिना मुष्टिना पूर्धि पूरयाशंसनं देहिच ॥ १० ॥
अयं कृत्नुरिति नवर्चं नवमं सूक्तम् । अत्रेयमनुक्रमणिका-अयंकृत्नुर्नवकृत्नुर्भार्गवः सौम्यमन्त्यानुष्टुबिति । भार्गवः कृत्नुऋषिः नवम्यनुष्टुप् अष्टौ गायत्र्यः सोमोदेवता विनियोगोलैंगिकः ।