श्रवणम्

8.78.4
नकीं᳚ वृधी॒क इ᳚न्द्र ते॒ न सु॒षा न सु॒दा उ॒त ।
नान्यस्त्वच्छू᳚र वा॒घतः᳚ ॥
▶ पदपाठः (Word-by-word)
नकी᳚म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒॑साः । न । सु॒॑दाः । उ॒त ।
न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वत्तोन्यः कश्चिद्वृधीको वर्धयिता नकीं नैव । तथा सुषाः सुष्ठु संभक्ताः संग्रामादौ त्वत्तोन्योन । उतापिच सुदाः सुदाता न । तथा हेशूर त्वत् त्वत्तोन्यो वाघतः ऋत्विङ्नामैतत् ऋत्विजो यजमानस्य नेता नान्योस्ति त्वामृते ॥ ४ ॥