श्रवणम्

8.78.6
स म॒न्युं मर्त्या᳚ना॒मद᳚ब्धो॒ नि चि᳚कीषते ।
पु॒रा नि॒दश्चि᳚कीषते ॥
▶ पदपाठः (Word-by-word)
सः । म॒न्युम् । मर्त्या᳚नाम् । अद᳚ब्धः । नि । चि॒की॒ष॒ते॒ ।
पु॒रा । नि॒दः । चि॒की॒ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रो मन्युं क्रोधं केषां मर्त्यानां अदब्धः केनाप्यहिंसितः सन् निचिकीषते निकरोति । किं मन्युं प्राप्यैव नेत्याह निदोनिन्दायाः पुरा पूर्वमेव चिकीषते यदा तं निन्दितुमिच्छति कश्चित्ततः पूर्वमेव तं निकरोतीत्यर्थः ॥ ६ ॥