श्रवणम्

8.78.5
नकी॒मिन्द्रो॒ निक᳚र्तवे॒ न श॒क्रः परि᳚शक्तवे ।
विश्वं᳚ शृणोति॒ पश्य᳚ति ॥
▶ पदपाठः (Word-by-word)
नकी᳚म् । इन्द्रः᳚ । नि॑क᳚र्तवे । न । श॒क्रः । परि᳚॑शक्तवे ।
विश्व᳚म् । शृ॒णो॒ति॒ । पश्य᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रो निकर्तवे निकर्तुं नकीं नैव शक्यः । तथा शक्रः शक्तोयं परिशक्तवे परिभावाय नशक्यत इति । सतु विश्वं शृणोति पश्यतिच ॥ ५ ॥