श्रवणम्

8.78.9
त्वामिद्य᳚व॒युर्मम॒ कामो᳚ ग॒व्युर्हि᳚रण्य॒युः ।
त्वाम᳚श्व॒युरेष᳚ते ॥
▶ पदपाठः (Word-by-word)
त्वाम् । इत् । य॒व॒॑युः । मम᳚ । कामः᳚ । ग॒व्युः । हि॒र॒ण्य॒युः ।
त्वाम् । अ॒श्व॒॑युः । आ । ई॒ष॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वामित् त्वामेवेषते किं मम कामः सकीदृशः यवयुः यवेच्छुः सन्नेषते । तथा गव्युः सन्नेषते । तथा हिरण्ययुश्चसन्नेषते । तथाश्वयुश्च सन्नेषते । तं काममाप्तेच्छं कुर्विति भावः ॥ ९ ॥