आ नो᳚ भर॒ व्यञ्ज᳚नं॒ गामश्व᳚म॒भ्यञ्ज᳚नम् ।
सचा᳚ म॒ना हि᳚र॒ण्यया᳚ ॥
सचा᳚ म॒ना हि᳚र॒ण्यया᳚ ॥
पदपाठः (Word-by-word)
आ । नः॒ । भ॒र॒ । वि॒॑अञ्ज᳚नम् । गाम् । अश्व᳚म् । अ॒भि॒॑अञ्ज᳚नम् ।
सचा᳚ । म॒ना । हि॒र॒ण्यया᳚ ॥
सचा᳚ । म॒ना । हि॒र॒ण्यया᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वंनोस्मभ्यं व्यंजनं गामश्वं अभ्यञ्चनं तैलं चाभर । मना मननीयानि हिरण्यया हिरण्मयानि उपकरणानि सचा सहाभरेति ॥ २ ॥