श्रवणम्

8.78.7
क्रत्व॒ इत्पू॒र्णमु॒दरं᳚ तु॒रस्या᳚स्ति विध॒तः ।
वृ॒त्र॒घ्नः सो᳚म॒पाव्न᳚ः ॥
▶ पदपाठः (Word-by-word)
क्रत्वः᳚ । इत् । पू॒र्णम् । उ॒दर᳚म् । तु॒रस्य᳚ । अ॒स्ति॒ । वि॒ध॒तः ।
वृ॒त्र॒॑घ्नः । सो॒म॒॑पाव्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुरस्य त्वरमाणस्य वृत्रघ्नो वृत्रं हतवतः सोमपान्नः सोमपातुरुदरं क्रत्वइत् कर्मणैव पूर्णमस्ति भवति । कस्य कर्मणेति उच्यते-विधतः परिचरतो यजमानस्य । यतः परिचरणाभावे तस्य कुक्षिपूर्त्यभावः अतस्तत्पूर्तये परिचरतेतिशेषः ॥ ७ ॥