आ मे॒ हवं᳚ नास॒त्याश्वि᳚ना॒ गच्छ᳚तं यु॒वम् ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
आ । मे॒ । हव᳚म् । ना॒स॒त्या॒ । अश्वि᳚ना । गच्छ᳚तम् । यु॒वम् ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नासत्या असत्यमनयोर्नास्तीति नासत्यौ तादृशौ हे अश्विना अश्विनौ युवं युवां मे मदीयं हवमाह्वानं श्रुत्वा यद्वा हवं हूयतेत्रेति हवोयज्ञः केवल- स्याधिकरणे अप् छान्दसः मदीयं यज्ञं प्रति मध्वः मदकरस्य सोमस्य पीतये पानाय तदर्थमागच्छतम् ॥ १ ॥