शृ॒णु॒तं ज᳚रि॒तुर्हवं॒ कृष्ण᳚स्य स्तुव॒तो न᳚रा ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
शृ॒णु॒तम् । ज॒रि॒तुः । हव᳚म् । कृष्ण᳚स्य । स्तु॒व॒तः । न॒रा॒ ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नरौ सर्वस्य नेतारावश्विनौ जरितुः तच्छीलार्थेतृन् व्यत्ययेनान्तोदात्तत्वम् । जरितुः स्तवनशीलस्य संप्रति स्तुवतः स्तोत्रं कुर्वतः कृष्णस्य एतन्नामकस्य ऋषेः संबन्धि हवं युष्मद्विषयाह्वानं शृणुतम् । यद्वा जरितुः अन्यदेवानां स्तोतुः स्तुवतइदानीं युवयोः स्तोत्रकारिणस्तस्य हवं शृणुतम् । शिष्टं गतम् ॥ ४ ॥