यु॒ञ्जाथां॒ रास᳚भं॒ रथे᳚ वी॒ड्व᳚ङ्गे वृषण्वसू ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
यु॒ञ्जाथा᳚म् । रास᳚भम् । रथे᳚ । वी॒ळु॑अ᳚ङ्गे । वृ॒ष॒ण्व॒सू॒ इति᳚ वृषण्॑वसू ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वृषण्वसू वर्षणशीलधनवन्तौ अश्विनौ युवां वीड्वंगेवीळुर्दृढः दृढांगोपेते स्वरथेरासभं शब्दायमानं एतन्नामकमश्वं युंजाथां संयोजयताम् । किमर्थं मध्वः सोमस्य पीतयइति । रासभावश्विनोरिति रासभावेवाश्विनो रथस्यवाहनौ ॥ ७ ॥