छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒ विप्रा᳚य स्तुव॒ते न᳚रा ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
छ॒र्दिः । य॒न्त॒म् । अदा᳚भ्यम् । विप्रा᳚य । स्तु॒व॒ते । न॒रा॒ ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नरा नेतारावश्विनौ विप्राय मेधाविने अतएव स्तुवते स्तोत्रं कुर्वते कृष्णाय ऋषये अदाभ्यं दभेश्चेति ण्यत्प्रत्ययः परैरहिंस्यं छर्दिर्गृहं यन्तं प्रयच्छतम् । किमर्थं सोमपानाय स्तोत्रे गृहे दीयमाने सति तदाससोमं युवाभ्यां प्रयच्छति ॥ ५ ॥