अ॒यं वां॒ कृष्णो᳚ अश्विना॒ हव᳚ते वाजिनीवसू ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । कृष्णः᳚ । अ॒श्वि॒ना॒ । हव᳚ते । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वाजिनीवसू अन्नयुक्तधनौ अत्र इनिरनुवादार्थः । यद्वा वाजः वजनं क्रिया तद्वती वाजिनी तद्युक्तधनवन्तौ हे अश्विना अश्विनौ अयं कृष्णोनाम मंत्रद्रष्टाऋषिः वां युवां हवते स्तुतिभिराह्वयति । किमर्थं मध्वः सोमस्य पीतयइति ॥ ३ ॥