नू मे॒ गिरो᳚ नास॒त्याश्वि᳚ना॒ प्राव᳚तं यु॒वम् ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
नु । मे॒ । गिरः᳚ । ना॒स॒त्या॒ । अश्वि᳚ना । प्र । अ॒व॒त॒म् । यु॒वम् ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे नासत्या असत्यरहितौ हे अश्विना अश्विनौ मे मदीयागिरः स्तुतिलक्षणावाचः प्रति युवं युवां नु क्षिप्रं प्रावतं प्रकर्षेण गच्छतम् । यद्वा मे गिरः प्रावतं आत्मीयतया प्ररक्षतम् । किमर्थं मध्वो मदकरस्य सोमस्य पीतये पानाय तदर्थं सर्वेदेवाः स्तुतिभिराहूताः सन्तोयज्ञं प्रत्यागच्छन्ति स्तुतिभिर्विना नागच्छ्न्तीति गच्छतं रक्षतंचेति युक्तं भवति ॥ ९ ॥
उभाहिदस्रेति पंचर्चं षष्ठं सूक्तं विश्वकोनाम कृष्णस्यपुत्रः कृष्णएववा ऋषिः जगतीछन्दः । अश्विनौ देवता । तथानुक्रम्यते-उभाहिपंच विश्वकोवा कार्ष्णिर्जागतमिति । विनियोगोलिंगादवगन्तव्यः ।