इ॒मं मे॒ स्तोम᳚मश्विने॒मं मे᳚ शृणुतं॒ हव᳚म् ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
इ॒मम् । मे॒ । स्तोम᳚म् । अ॒श्वि॒ना॒ । इ॒मम् । मे॒ । शृ॒णु॒त॒म् । हव᳚म् ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ मे मदीयं इमं स्तोमं स्तोत्रं किंच मे मदीयं इममिदमागमनविषयं हवमाह्वानंच शृणुतम् ॥ २ ॥