गच्छ᳚तं दा॒शुषो᳚ गृ॒हमि॒त्था स्तु᳚व॒तो अ᳚श्विना ।
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
गच्छ᳚तम् । दा॒शुषः᳚ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ ।
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना अश्विनौ इत्था इत्थमनेन प्रकारेण स्तुवतः युवयोः स्तोत्रं कुर्वतो दाशुषो हवींषि दत्तवतो यजमानस्य गृहंप्रति गच्छतं युवामागच्छतम् । किमर्थं मध्वः सोमस्य पीतयइति ॥ ६ ॥