श्रवणम्

7.30.2
हव᳚न्त उ त्वा॒ हव्यं॒ विवा᳚चि त॒नूषु॒ शूरा॒ः सूर्य᳚स्य सा॒तौ ।
त्वं विश्वे᳚षु॒ सेन्यो॒ जने᳚षु॒ त्वं वृ॒त्राणि᳚ रन्धया सु॒हन्तु᳚ ॥
▶ पदपाठः (Word-by-word)
हव᳚न्ते । ऊं॒ इति᳚ । त्वा॒ । हव्य᳚म् । वि॑वा᳚चि । त॒नूषु᳚ । शूराः᳚ । सूर्य᳚स्य । सा॒तौ ।
त्वम् । विश्वे᳚षु । सेन्यः᳚ । जने᳚षु । त्वम् । वृ॒त्राणि᳚ । र॒न्ध॒य॒ । सु॒॑हन्तु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हव्यं हवातव्यं त्वा त्वां विवाचि विविधावाचोयस्मिन् प्रादुर्भवन्ति तस्मिन् युद्धे शूराः पुरुषाः तनूष्वंगेषु रक्षणीयासु सूर्यस्य सातौ संभजने सरति गच्छतीत्यायुरत्रसूर्यः विवक्षितः तस्य चिरकालं प्राप्त्यर्थं हवन्ते ह्वयन्ति । उः पूरणः । विश्वेषु सर्वेषु जनेषु त्वमेव सेन्यः सेनार्होसि । अपि च त्वं वृत्राणि शत्रून् सुहन्तु सुहन्तुनाम्ना वज्रेण रन्धय अस्मभ्यं वशीकुरु ॥ २ ॥