श्रवणम्

7.30.3 समानपद
अहा॒ यदि᳚न्द्र सु॒दिना᳚ व्यु॒च्छान्दधो॒ यत्के॒तुमु᳚प॒मं स॒मत्सु᳚ ।
न्य१॒᳚ग्निः सी᳚द॒दसु᳚रो॒ न होता᳚ हुवा॒नो अत्र᳚ सु॒भगा᳚य दे॒वान् ॥
▶ पदपाठः (Word-by-word)
अहा᳚ । यत् । इ॒न्द्र॒ । सु॒॑दिना᳚ । वि॒॑उ॒च्छान् । दधः᳚ । यत् । के॒तुम् । उ॒प॒॑मम् । स॒मत्॑सु᳚ ।
नि । अ॒ग्निः । सी॒द॒त् । असु᳚रः । न । होता᳚ । हु॒वा॒नः । अत्र᳚ । सु॒॑भगा᳚य । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यदा अहा अहानि सुदिना सुदिनानि व्युच्छान् व्युच्छेयुः यद्यदा च समत्सु संग्रामेषु केतुं ज्ञानमुपमं अन्तिकं दधः धारयेः तदा नेति संप्रत्यर्थे असुरोबलवान् होता देवानामाह्राताग्निः सुभगायास्माकं शोभनधनप्राप्तये देवान् हुवानो ह्वयन् अत्रास्मिन्यज्ञे निषीदत् न्यसीदत् ॥ ३ ॥