श्रवणम्

7.30.4
व॒यं ते त᳚ इन्द्र॒ ये च᳚ देव॒ स्तव᳚न्त शूर॒ दद᳚तो म॒घानि᳚ ।
यच्छा᳚ सू॒रिभ्य᳚ उप॒मं वरू᳚थं स्वा॒भुवो᳚ जर॒णाम᳚श्नवन्त ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । दे॒व॒ । स्तव᳚न्त । शू॒र॒ । दद᳚तः । म॒घानि᳚ ।
यच्छ᳚ । सू॒रि॑भ्यः᳚ । उ॒प॒॑मम् । वरू᳚थम् । सु॒॑आ॒भुवः᳚ । ज॒र॒णाम् । अ॒श्न॒व॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव शूरेन्द्र ते तव वयं वसिष्ठाः स्वभूता ये जनाः मदीयपुत्रपौत्रादयो मघानि मंहनीयानि हवींषि ददतः प्रयच्छन्तः स्तवन्त स्तुवन्ति तेपि तव स्वभूताः तेभ्यः उभयेभ्यः सूरिभ्यः स्तोतृभ्यः उपमं श्रेष्ठं वरूथं गृहं यच्छ प्रयच्छ अपि च ते उभे स्वाभुवः सुसमृद्धाः सन्तः जरणां जरां अश्नवन्त प्राप्नुवन्तु ॥ ४ ॥