श्रवणम्

7.30.5
वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध᳚सो॒ यद्दद᳚न्नः ।
यो अर्च᳚तो॒ ब्रह्म᳚कृति॒मवि᳚ष्ठो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
वो॒चेम᳚ । इत् । इन्द्र᳚म् । म॒घ॑वा᳚नम् । ए॒न॒म् । म॒हः । रा॒यः । राध᳚सः । यत् । दद᳚त् । नः॒ ।
यः । अर्च᳚तः । ब्रह्म᳚॑कृतिम् । अवि᳚ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषासिद्धा ॥ ५ ॥

प्रवइन्द्रायेति द्वादशर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षंत्रैष्टुभमैन्द्रं दशम्याद्यास्तिस्रोविराजः शिष्टागायत्र्यः तथाचानुक्रान्तं-प्रवोद्वादशगाय- त्रं त्रिविराळन्तमिति । सूक्तविनियोगोलैंगिकः । प्रथमेरात्रिपर्याये मैत्रावरुणशस्त्रे प्रवइन्द्रायेत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च- प्रवइन्द्रायमादनं प्रकृतान्यृजीषिणइति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे वयमिन्द्रत्वायवोभीत्यनुरूपस्तृचः तथा च सूत्रितं- वयमिन्द्रत्वायवोभिवार्त्रहत्यायेत्युत्तमामुद्धरेदिति । चतुर्थेहनि माध्यंदिनसवने होत्रकशस्त्रे आरंभणीयाभ्यऊर्ध्वंवैराजकएकस्तृचआहव- नीयः तदर्थाः प्रवोमहे महिवृधे भरध्वमित्याद्यास्तेस्रः सूत्रितं च-प्रवोमहेमहिवृधेभरध्वमिति चतस्रस्तिस्रश्च विराजइति ।