श्रवणम्

7.40.1 समानपद
ओ श्रु॒ष्टिर्वि᳚द॒थ्या॒३॒᳚ समे᳚तु॒ प्रति॒ स्तोमं᳚ दधीमहि तु॒राणा᳚म् ।
यद॒द्य दे॒वः स᳚वि॒ता सु॒वाति॒ स्यामा᳚स्य र॒त्निनो᳚ विभा॒गे ॥
▶ पदपाठः (Word-by-word)
ओ इति᳚ । श्रु॒ष्टिः । वि॒द॒थ्या᳚ । सम् । ए॒तु॒ । प्रति᳚ । स्तोम᳚म् । द॒धी॒म॒हि॒ । तु॒राणा᳚म् ।
यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति᳚ । स्याम᳚ । अ॒स्य॒ । र॒त्निनः᳚ । वि॒॑भा॒गे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः विदथ्या विदथेन त्वदीयेन चित्तेन संपाद्याश्रुष्टिः सुखं अस्मान् ओ आसमेतु आगच्छतु अथवा श्रुष्टिर्वेगवती विदथ्याविदथे यज्ञे क्रियमाणा अस्मदीयास्तुतिः युष्मानागच्छतु वयं तुराणां वेगवतां देवानां स्तोमं स्तोत्रं प्रति दधीमहि कुर्वीमहि अद्येदानीं सवितादेवः यद्धनं सुवाति अस्मभ्यं प्रेरयेत् रत्निनोरमणीयधनवतः अस्य सवितुस्तस्य धनस्य विभागे दाने स्याम वयं भवेम ॥ १ ॥