श्रवणम्

7.40.2 समानपद
मि॒त्रस्तन्नो॒ वरु᳚णो॒ रोद᳚सी च॒ द्युभ᳚क्त॒मिन्द्रो᳚ अर्य॒मा द᳚दातु ।
दिदे᳚ष्टु दे॒व्यदि᳚ती॒ रेक्णो᳚ वा॒युश्च॒ यन्नि᳚यु॒वैते॒ भग᳚श्च ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । तत् । नः॒ । वरु᳚णः । रोद᳚सी॒ इति᳚ । च॒ । द्यु॑भ᳚क्तम् । इन्द्रः᳚ । अ॒र्य॒मा । द॒दा॒तु॒ ।
दिदे᳚ष्टु । दे॒वी । अदि᳚तिः । रेक्णः᳚ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति᳚ नि॒॑यु॒वैते᳚ । भगः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोदेवः नोस्मभ्यं तत् प्रसिद्धं धनं ददातु प्रयच्छतु तथा वरुणोददातु रोदसी च द्यावापृथिव्यौ च दत्तां तथा इन्द्रः द्युभक्तं द्युभिः द्योतमानैः स्तोतृभिः सेवितं तद्धनं ददातु अर्यमाच ददातु तथा अदितिर्देवी रेक्णोधनं दिदेष्टु तद्धनमस्मभ्यं दिशतु वायुश्च भगश्च उभौ देवौ यद्धनं नियुवैते अस्मान्नितरां योजयेतां तद्धनमिति पूर्वेणसंबन्धः ॥ २ ॥